हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Sudarshana Kavacham 2 – श्री सुदर्शन कवचम्


अस्य श्रीसुदर्शनकवच महामन्त्रस्य अहिर्बुध्न्य ऋषिः अनुष्टुप् छन्दः सुदर्शनरूपी परमात्मा देवता सहस्रारं इति बीजं सुदर्शनं इति शक्तिः चक्रराडिति कीलकं मम सर्वरक्षार्थे जपे विनियोगः ।

करन्यासः –
आचक्राय स्वाहा – अङ्गुष्ठाभ्यां नमः ।
विचक्राय स्वाहा – तर्जनीभ्यां नमः ।
सुचक्राय स्वाहा – मध्यमाभ्यां नमः ।
धीचक्राय स्वाहा – अनामिकाभ्यां नमः ।
सञ्चक्राय स्वाहा – कनिष्ठिकाभ्यां नमः ।
ज्वालाचक्राय स्वाहा – करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
आचक्राय स्वाहा – हृदयाय नमः ।
विचक्राय स्वाहा – शिरसे स्वाहा ।
सुचक्राय स्वाहा – शिखायै वषट् ।
धीचक्राय स्वाहा – कवचाय हुम् ।
सञ्चक्राय स्वाहा – नेत्रत्रयाय वौषट् ।
ज्वालाचक्राय स्वाहा – अस्त्राय फट् ।

ध्यानम् ।
शङ्खं शार्ङ्गं सुखेटं हलपरशुगदापाशमन्तर्दधाने
सव्ये वामेऽथ चक्रेऽप्यसिमुसल लसद्वज्रहस्तं त्रिशूलम् ।
ज्वालाकेशं च पाशं ज्वलदनलशिखा विद्युद्दृङ्मण्डलस्थं
प्रत्यालीढं त्रिणेत्रं पुरगणमथनं भावये मन्त्रराजम् ॥

अथ मूलमन्त्रम् ।
ओं श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।

अथ कवचम् ।
मस्तकं मे सहस्रारं पातु फालं सुदर्शनम् ।
भ्रूमध्ये चक्रराट् पातु नेत्रेऽग्न्यर्केन्दुलोचनः ॥ १ ॥

कर्णौ वेदस्तवः पातु घ्राणं पातु विभीषणः ।
महादेवः कपोलं मे चक्षू रुद्रो वरप्रदः ॥ २ ॥

दन्तान् पातु जगद्वन्द्यो रसनां मम सर्वदः ।
सर्वविद्यां नृपः पातु गिरं वागीश्वरोऽवतु ॥ ३ ॥

वीरसिंहो मुखं पातु चिबुकं भक्तवत्सलः ।
सर्वदा पृष्ठदेशे मे देवानामभयप्रदः ॥ ४ ॥

नाभिं षट्कोणगः पातु घण्टारावः कटिं तथा ।
ऊरू पातु महाशूरो जानुनी भीमविक्रमः ॥ ५ ॥

जङ्घे पातु महावेगो गुल्फावदितिरञ्जनः ।
पातु पादतलद्वन्द्वं विश्वभारो निरन्तरम् ॥ ६ ॥

सुदर्शननृसिंहो मे शरीरं पातु सर्वदा ।
पातु सर्वाङ्गकान्तिं मे कल्पान्ताग्निसमप्रभः ॥ ७ ॥

मम सर्वाङ्गरोमाणि ज्वालाकेशस्तु रक्षतु ।
अन्तर्बहिश्च मे पातु विश्वात्मा सर्वतोमुखः ॥ ८ ॥

रक्षाहीनं च यत्स्थानं प्रचण्डस्तत्र रक्षतु ।
सर्वतो दिक्षु मे पातु ज्वालासाहस्रसंस्तुतम् ॥ ९ ॥

इति सौदर्शनं दिव्यं कवचं सर्वकामदम् ।
सर्वपापोपशमनं सर्वव्याधिनिवारणम् ॥ १० ॥

सर्वशत्रुक्षयकरं सर्वमङ्गलदायकम् ।
त्रिसन्ध्यं जपतां नॄणां सर्वदा सर्वकामदम् ॥ ११ ॥

प्रातरुत्थाय यो भक्त्या पठेदेतत्सदा नरः ।
तस्य कार्येषु सर्वेषु विघ्नः कोऽपि न जायते ॥ १२ ॥

यक्षराक्षसवेतालपिशाचाश्च विनायकः ।
शाकिनी डाकिनी माला कालिका चण्डिकादयः ॥ १३
भूतप्रेतपिशाचाश्च येऽन्ये दुष्टग्रहा अपि ।
कवचस्य प्रभावेन दृष्टिमात्रेण तेऽखिलाः ॥ १४ ॥

पलायन्ते यथा नागाः पक्षिराजस्य दर्शनात् ।
अस्यायुतं पुरश्चर्या दशांशं तिलसर्पिषा ॥ १५ ॥

हवनं तत्समं चैव तर्पणं गन्धवारिणा ।
पुष्पाञ्जलिं दशांशेन मृष्टान्नैः सुघृतप्लुतैः ॥ १६ ॥

चतुर्विंशद्द्विजा भोज्यास्ततः कार्याणि साधयेत् ।
विन्यस्य जवनो धीरो युद्धार्थं योऽधिगच्छति ॥ १७ ॥

क्षणाज्जित्वाऽखिलान् शत्रून् विजयी भवति ध्रुवम् ।
मन्त्रिताम्बु त्रिवारं वै पिबेत्सप्तदिनावधि ॥ १८ ॥

व्याधयः प्रशमं यान्ति सकलाः कुक्षिसम्भवाः ।
मुखरोगाक्षिरोगाणां नाशनं परमं मतम् ॥ १९ ॥

भीतानामभिषेकाच्च महाभयनिवारणम् ।
सप्ताभिमन्त्रितानेन तुलसीमूलमृत्तिका ॥ २० ॥

लिम्पेन्नश्यन्ति तद्रोगाः सप्त कृच्छ्रादयोऽखिलाः ।
ललाटे तिलकं नॄणां मोहनं सर्ववश्यकृत् ॥ २१ ॥

परेषां मन्त्रतन्त्रादि नाशनं परमं मतम् ।
अग्निसर्पादिसर्वेषां विषाणां हरणं परम् ॥ २२ ॥

सौवर्णे राजते वापि पत्रे भूर्जादिकेऽपि वा ।
लिखित्वा पूजयेद्भक्त्या स श्रीमान्भवति ध्रुवम् ॥ २३ ॥

बहुना किमिहोक्तेन यद्यद्वाञ्छति मानवः ।
सकलं प्राप्नुयादस्य कवचस्य प्रभावतः ॥ २४ ॥

इति श्री सुदर्शन कवचम् ।


Sri Sudarshana Stotras – श्री सुदर्शन स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.